लेटः इत्येव। लेट्सम्भन्धिनः एकारस्य वा ऐकाराऽदेशो भवति। अन्यत्र इत्यनन्तरो विधिरपेक्ष्यते। आत ऐ
३।४।९५ इत्येतद् विषयं वर्जयित्वा एत ऐ भवति। सप्ताहानि शासै। अहम् एव पशूनामीशै। मदग्रा एव वो ग्रहा गृह्यान्तै। मद्देवत्यान्येव वः पात्राण्युच्यान्तै। न च भवति। यत्र क्व च ते मनो दक्षं दधस उत्तरम्।
अन्यत्र इति किम्? मन्त्रयैते। मन्त्रयैथे।
"शासै" इति। उत्तमपुरुषैकवचनमिट्, टेरेत्वम्। "ईशै" इत्यादीनि उदाहरणानि "उपसंवादाशङ्कयोः"
३।४।८ इत्यत्र व्युत्पादितानि। "दधस" इति। "डुधाञ् धारणपोषणयोः" (धा।पा।१०९२), "थासः से"
३।४।८०, शपः श्लु), "श्लौ"
६।१।१० इति द्विर्वचनम्, अट्, "घोर्लोपो लेटि वा"
७।३।७० इत्यकारलोपः॥